यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय॑न्त्यु॒क्षणः॑। अश्व॑मेधस्य॒ दानाः॒ सोमा॑इव॒ त्र्या॑शिरः ॥५॥
yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ | aśvamedhasya dānāḥ somā iva tryāśiraḥ ||
यस्य॑। मा॒। प॒रु॒षाः। श॒तम्। उ॒त्ऽह॒र्षय॑न्ति। उ॒क्षणः॑। अश्व॑ऽमेधस्य। दानाः॑। सोमाः॑ऽइव। त्रिऽआ॑शिरः ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
यस्याश्वमेधस्य शतं परुषा उक्षणः सोमाइव दानास्त्र्याशिरो मा मामुद्धर्षयन्ति ता वाचो मया सोढव्याः ॥५॥